Ramayana in Valmiki’s own words (Balakandam)

Post Reply
kvchellappa
Posts: 3513
Joined: 04 Aug 2011, 13:54
Location: Bengaluru
x 804
x 221
Contact:

#1 Ramayana in Valmiki’s own words (Balakandam)

Post by kvchellappa » 27 Jun 2018, 18:12

Samskrtam
Ramayana in Valmiki’s own words.

कॊसलॊ नाम जनपथॊ सरयूतीरे निविष्टः (अभवत्) I अयॊध्या नाम नगरी तत्रासीत् I राजा दशरथो तां पुरीम् आवासयाम, शशास (च) I अष्टौ बभूवुः तस्यामात्याः,
धृष्टिः, जयन्तः, विजयः, सिथ्धार्थः, अर्थसाधकः, अशॊकः, मन्त्रपालः, सुमन्त्रः च I ऋत्विजौ वसिष्टः, वामदेवः च तस्यास्ताम् I अपरे मन्त्रिणः सुयज्ञः, जाबालिः, काश्यपः, गौतमः, मार्कन्देयःकात्यायनः च आसन् I

तस्य सुतार्थं तप्यमानस्य वंशकरः सुतः नासीत् I तस्य ‘सुतार्थं वाजिमेधेन किम् न यजामि, यष्टव्यं’ (इति) निश्चितां मतिं कृत्वा, सुमन्त्रं अब्रवीत्, ‘शीघ्रम् आनय सर्वान् गुरूंन् सपुरॊहितान्’ I सः तान् सर्वान् समानयत् I दशरथः तान् अब्रवीत्, ‘पुत्रार्थम् हयमेधेन यक्ष्यामि’ इति I तद्वाक्यम् साध्विति सर्वे ऊचुः I दशरथः विप्रान् विसर्जयित्वा सचिवान् अब्रवीत्, ‘ऋत्विग्विभिः उपदिष्टः यथावत् क्रतुः आप्यताम्’I
रहः सूतो राजानम् अब्रवीत्, ‘काश्यपस्य पुत्रः अस्ति विभण्डक इति, ऋश्यशृङ्ग इति
तस्य पुत्रः। रोमपादः अङ्गेषु प्रथितो राजा अस्मै (ऋश्यशृङ्गाय) कन्यां शान्तां यथाविधि दत्त्वा हर्षमवाप॥ एवं ऋश्यशृङगः शान्तया सह (अङ्गदेशे) न्यवसत् I ऋश्यशृङ्गः पुत्रान् तव विधास्यति। सनत्कुमारकथितम् एतावद्व्याहृतं मया श्रुतं’I दशरथः सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजःI दशरथः रोमपादं अब्रवीत्, ‘तव सुता शान्ता भर्त्रा सह मदीयं नगरं यातुI’ स (ऋश्यशृङ्गः) नृपेण अभ्यनुज्ञातः भार्यया सह प्रययौI
3. राजा अनुत्तमं यज्ञं प्राप्य ऋश्यशृङ्गं अब्रवीत्, ‘कुलस्य वर्द्धनं त्वं तु कर्तुं अर्हसि’ I तस्मिन् क्रतौ निर्वृत्ते, ऋश्यशृङ्गः राजानम् उवाच, ‘चत्वारः सुताः ते भविष्यन्ति’I ततो यज्ञे समाप्ते ऋतूनां षट् समत्ययुः। ततश्च कौसल्या रामम् अजनयत् I भरतो नाम कैकेय्याम् जज्ञे । अथ सुमित्रा लक्ष्मणशत्रुघ्नौ सुतौ अजनयत् । राज्ञः चत्वारो पुत्रा महात्मानः, गुणवन्तो, अनुरूपाश्च जज्ञिरे ।

सर्वे वेदविदः, शूराः, लोकहिते रताः, गुणैः समुदिताः, ज्ञानोपपन्नाश्च (बभूवुः) I बाल्यात् प्रभृति लक्ष्मणः रामस्य सर्वप्रियकरः (अभवत्) I भरतस्यापि शत्रुघ्नः प्रियः आसीत् I दशरथः तेषां दारक्रियां प्रति चिन्तयामास ।

4.राज्ञो दर्शनाकाङ्क्षी विश्वामित्रो अभ्यागच्छत् I राजा विश्वामित्रं उवाच, “स्वागतं ते महामुने I आगमनं कार्यं प्रति ब्रूहि। (तव) कार्यस्य अहं अशेषेण कर्ता (भवामि) I”
तच्छ्रुत्वा विश्वामित्रो अभ्यभाषत, “अहं सिद्ध्यर्थं नियमं आतिष्ठे I तस्य द्वौ राक्षसौ विघ्नकरौ मारीचश्च सुबाहुश्च समांसरुधिरौघेण वेदिं तामभ्यवर्षताम् I स्वपुत्रं रामं मे दातुमर्हसि I एषः तेषां विनाशने शक्तः I तच्छ्रुत्वा मुहूर्तमिव निःसञ्ज्ञः सञ्ज्ञावान् इदमब्रवीत्, “ऊनषोडशवर्षो रामः, राक्षसैः सह युद्धयोग्यतां अस्य न पश्यामि I योद्धा तैः र्निशाचरैः अहं योद्धा I मे भृत्या शूराश्च विक्रान्ता अस्त्रविशारदाः, रक्षोगणैः र्योद्धुम् योग्याः । रामं नेतुं नार्हसि I किंवीर्या राक्षसास्ते, कस्य पुत्राः, कथम्प्रमाणाः, के एतान् रक्षन्ति I सर्वं मे शंस भगवन् I”
विश्वामित्रो अभ्यभाषत, “राक्षसाधिपः रावणो, विश्रवसो मुनेः पुत्रः, तेन सञ्चोदितौ द्वौ राक्षसौ मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतःI”
राजा मुनिं उवाच, “तस्य दुरात्मनः सङ्ग्रामे स्थातुं न शक्तो अस्मि I मम पुत्रके मम च
प्रसादं कुरुष्व I मे तनयं बालं नैव दास्यामि I”
5. कौशिको महीपतिम् प्रत्युवाच: “प्रतिज्ञां हातुमिच्छसि । राघवाणामयुक्तोऽयम् I यदीदं ते क्षमं यथागतम् गमिष्यामि । मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः I”
वसिष्ठो नृपतिं वाक्यमब्रवीत्: “न धर्मं हातुमर्हसि I तस्माद्रामं विसर्जय I एष विग्रहवान् धर्मः, वीर्यवतां वरः, विविधान् अस्त्रान् वेत्ति I विश्वामित्रो महातेजा महायशाः । रामगमने संशयं न गन्तुमर्हसि I कुशिकात्मजः तेषां निग्रहणे स्वयं शक्तः। तव पुत्रहितार्थाय त्वामुपेत्याभियाचते I”
दशरथः रामम् आजुहाव सलक्ष्मणम् । स पुत्रं कुशिकपुत्राय ददौ I विश्वामित्रो ययावग्रे, ततो रामो तं च सौमित्रिरन्वगात् I
6.अध्यर्द्धयोजनं गत्वा सरय्वा दक्षिणे तटे विश्वामित्रो अभ्यभाषत “मन्त्रग्रामं गृहाण त्वम्
बलामतिबलां तथा I बला अतिबला च सर्वज्ञानस्य मातरौ I ततो रामो ते विद्ये
प्रतिजग्राह I
विश्वामित्रः ताभ्याम् सहितः सरितं ततार I तावुभौ दक्षिणं तीरं आसाद्य घोरसङ्काशम् वनं जग्मतुः I नृपवरात्मजः मुनिपुङ्गवम् पप्रच्छ “किं एतत् दारुणं वनम्?” विश्वामित्रो
तं उवाच “एतौ जनपदौ मलदाः करूशाः च। सुन्दस्य सुन्दस्य ताटका नाम दुष्टचारिणी
इमौ जनपदौ विनाशयति । जहि इमां, इमं देशम् निष्कण्टकं पुनः कुरु I”
7. विश्वामित्रो अब्रवीत्, “त्वामृते न कश्चित् एनां निहन्तुं उत्सहते । ते स्त्रीवधकृते घृणा कार्या न हि । सताम् रक्षता प्रजारक्षणकारणात् नृशंसं अनृशंसं वा, पातकं वा सदोषं वा, कर्तव्यं I” राघवः प्रत्युवाच, “पितुः वचन-निर्देशात् गौरवात् (च) कौशिकस्य वचनं
कर्तव्यं । ताटकावधं करिष्यामि I” एवमुक्त्वा अरिन्दमः ज्याघोषं अकरोत् शब्देन दिशः नादयन् I ताटका तेन शब्देन मोहिता यतः शब्दो विनिस्सृतः वेगेन अद्रवत् I ताटका बाहू उद्यम्य गर्जन्ती रामम अभ्यधावत I राघवः शरवर्षेण तस्याः करौ चिच्छेद I सा मायाबलसमन्विता काकुत्स्थम् लक्ष्मणं च अभिदुद्राव I तां उरसि (रामः) शरेण विव्याध I सा पपात ममार च I ततो प्रीतः मुनिवरः रामं मूर्ध्नि उपाघ्राय तत्र वने रजनीं सुखम्
उवास I
8. अथ तां रजनीमुष्य विश्वामित्रो तानि अस्त्राणि येषाम् सर्वसङ्ग्रहणं दैवतैरपि दुर्लभम्
राघवाय न्यवेदयत् । गृहीतास्त्रो काकुत्स्थो विश्वामित्रं अब्रवीत्, “अस्त्राणां संहारं इच्छामि” I विश्वामित्रो संहारं व्याजहार I
महामुनिः सिद्धाश्रमं प्रविशन् व्यरोचत I ततो विश्वामित्रो दीक्षाम् प्रविवेश I राजपुत्रौ अनिद्रौ षडहोरात्रम् तपोवनं अरक्षताम् I अथ षष्ठे अहनि समागते आकाशे महान् शब्दः
आसीत् । राक्षसौ मारीचः सुबाहुः च गगनं आवार्य मायां विकुर्वाणौ अभ्यधावताम्, आगम्य रुधिरौघं अवासृजन् I राघवः मारीचोरसि मानवं अस्त्रं चिक्षेप I स परमास्त्रेण
योजनशतम् सागरसम्प्लवे क्षिप्तः I ततो रामो सुबाहूरसि आग्नेयं चिक्षेप I स विद्धः प्रापतद्भुवि I शेषान् वायव्यमादाय राघवः निजघान मुनीनां मुदमावहन् ।
9. सर्व एव महर्षयः रामं अब्रुवन्, “मैथिलस्य जनकस्य यज्ञः भविष्यति । वयम्
तस्य यास्यामहे I त्वं चैव अस्माभिः सह गमिष्यसि । तत्र अद्भुतं धनुरत्नं च
द्रष्टुमर्हसि I तस्य धनुषः महाबलाः राजपुत्राः आरोपयितुम् न शेकुः I“
ततो मुनिवरः सहराघवः विशालां नगरीं जगाम । राघवौ तत्र एकाम् निशां उष्य
मिथिलां जग्मतुः I रामः सौमित्रिणा सह विश्वामित्रं पुरस्कृत्य जनकस्य यज्ञवाटम् उपागमत् I नृपतिः (जनकः) पुरोहितं शतानन्दं पुरस्कृत्य सहसा प्रत्युज्जगाम, विश्वामित्राय अर्घ्यं ददुः I नृपः तं परिपप्रच्छ, “भद्रं ते, इमौ कुमारौ कथं पद्भ्यामिह प्राप्तौ? कस्य पुत्रौ? श्रोतुमिच्छामि I” विश्वामित्रो दशरथस्य पुत्रौ तौ तस्य न्यवेदयत्,
सिद्धाश्रमनिवासं, राक्षसानां वधं, महाधनुषि जिज्ञासाम् कर्तुमागमनं तथा ।
10. ततः प्रभाते नराधिपः विश्वामित्रं सराघवम् आजुहाव, तदा वाक्यं उवाच, “किं करोमि, भवान् माम् आज्ञापयतु I” मुनिः प्रत्युवाच, “इमौ दशरथस्य पुत्रौ (तव) धनुःश्रेष्ठम् द्रष्टुकामौ I एतत् दर्शय I” जनकः महामुनिम् प्रत्युवाच, “रामलक्ष्मणयोः धनुः
दर्शयिष्यामि I यदि अस्य धनुषो रामः आरोपणं कुर्यात्, (मम) सुतां सीताम् (तस्य)
दद्यां I”
11. विश्वामित्रः, “धनुर्दर्शय रामाय,” इति पार्थिवम् उवाच I सचिवाः पार्थिवाज्ञया पुरीम् प्राविशन्, तद्धनुः पुरतः कृत्वा निर्जग्मुः I नृणां पञ्चाशत् शतानि मञ्जूषामष्टचक्रां ताम् कथञ्चन समूहुः I नृपो विश्वामित्रं कृताञ्जलिः अभाषत, “अनयो राजपुत्रयोः एतत् दर्शय I” विश्वामित्रः “वत्स राम धनुः पश्य,” इति राघवं अब्रवीत् ॥ स धनुर्मध्ये लीलया
जग्राह, सलीलमिव तत्धनुः आरोपयत्, पूरयामास (च) I तत् धनुः मध्ये बभञ्ज I तस्य शब्दो महान् आसीत्, भूमिकम्पश्च (आसीत्) I राजा (जनकः) मुनिपुङ्गवम् उवाच, “दृष्टवीर्यो मे रामः I मम प्रतिज्ञा सत्या, मे सुता सीता रामाय देया । मम मन्त्रिणः शीघ्रं अयोध्यां गच्छन्तु, राजानं मम पुरं आनयन्तु ।“ कौशिकश्च तथा इति आह I राजा मन्त्रिणः अयोध्यां प्रेषयामास ।
12. .(दशरथः सपरिवारः) विदेहान् अभ्युपेयिवान् I ततो जनको दशरथं आसाद्य परमं
हर्षं ययौ, उवाच च, “श्वः प्रभाते यज्ञस्यान्ते ऋषिसम्मतम् विवाहं निर्वर्तयितुं अर्हसि ।“
नराधिपः प्रत्युवाच, “यथा वक्ष्यसि तत् वयम् करिष्यामहे I”
ततः प्रभाते जनकः शतानन्दं उवाच, “मम यवीयान् भ्राता कुशध्वज इति ख्यातः । तमहं द्रष्टुमिच्छामि I” केचिद् अव्यग्राः नरव्याघ्रम् समानेतुं प्रययुः I कुशध्वजः (मिथिलां) आजगाम I
तदा राजा (दशरथः) सर्षिगणः सबन्धुः जनको यत्र वर्तते तत्र अगमत् । वसिष्ठो वैदेहं
उवाच, “इक्ष्वाकुकुलजातानाम् रामलक्ष्मणयोरर्थे त्वत्सुते वरये ।“
जनकः प्रत्युवाच, “सीतां रामाय ऊर्मिला लक्ष्मणाय च ददामि ।“
विश्वामित्रो वैदेहम् नृपम् उवाच, “यवीयान् भ्राता एष कुशध्वजः, अस्य सुताद्वयं
पत्न्यर्थं वरयामहे I जनकः उवाच, “एवं भवतु I शत्रुघ्नभरतौ कुशध्वजसुते पत्न्यौ भजेतां ।

13. यस्मिन् दिवसे राजा गोदानं चक्रे तस्मिन् दिवसे केकयराजस्य पुत्रः
भरतमातुलः युधाजित् समुपेयिवान् I दशरथः प्रियातिथिं समपूजयत् I (सः)
ततः प्रभाते ऋषीन् पुरस्कृत्य यज्ञवाटम् उपागमत् I युक्ते मुहूर्ते भ्रातृभिस्सहितो रामः
कृतकौतुकमंगलः तस्थौ । वसिष्ठो वैदेहं अब्रवीत्, “दशरथो कृतकौतुकमङ्गलैः पुत्रैः
दातारं अभिकाङ्क्षते I (जनकः) प्रत्युवाच, “कृतकौतुकसर्वस्वा मम कन्या वेदिमूलं उपागताः । सज्जोऽहं I”
दशरथः तदा सुतान् सर्वानृषिगणानपि (वेदिं) प्रवेशयामास ।
ततः सर्वाभरणभूषिताम् सीतां समानीय अग्ने समक्षं राघवाभिमुखे संस्थाप्य जनको
अब्रवीत्, “मम सुता इयं सीता तव सहधर्मचरी, पतिव्रता, महाभागा, सदा
छायेव अनुगता । एनां प्रतीच्छ, पाणिं पाणिना गृह्णीष्व I”
तदा महान् पुष्पवर्षो अभूत् ।
तदा जनकः अब्रवीत्, “लक्ष्मण, आगच्छ ऊर्मिलां प्रतीच्छ पाणिं गृह्णीष्व I”
जनको भरतं च अभ्यभाषत, “माण्डव्याः पाणिं पाणिना गृहाण I”
जनको शत्रुघ्नं चापि अब्रवीत्, “ श्रुतकीर्त्या पाणिं पाणिना गृह्णीष्व ।“
तदा ते चत्वारः पाणीन् पाणिभिः आस्पृशन्, अग्निं वेदिं राजानं ऋषीन् च प्रदक्षिणीकृत्य यथोक्तेन विधिपूर्वकम् विवाहं चक्रुः I
(तदा) पुष्पवृष्टिः महत्यासीत् I

14. अथ विश्वामित्रो तौ राजानौ आपृष्ट्वा उत्तरपर्वतम् जगाम । दशरथः वैदेहं आपृष्ट्वाऽथ सबलानुगः पुरीम् जगाम I
(पथि) सा चमूः राजराजविमर्दिनम् जामदग्न्यं, स्कन्धे परशुम् आसज्य, धनुः च प्रगृह्य
आगच्छन्तं ददर्श । ऋषयो भार्गवं राम रामेति मधुरं वचो अब्रुवन् I तां पूजां प्रतिगृह्य जामदग्न्यो रामो दाशरथिं रामं अभ्यभाषत, “राम, ते वीर्यं, धनुषो भेदनं च निखिलेन मया श्रुतम् I तत् श्रीत्वा अपरं धनुः गृह्य अहं अनुप्राप्तः I इदं जामदग्न्यं महद्धनुः शरेण पूरयस्व स्वबलं दर्शयस्व च I ते बलं दृष्ट्वा द्वन्द्वयुद्धं प्रदास्यामि I”
दाशरथिः अब्रवीत्, “भार्गव यत्कर्म कृतवान् असि श्रुतवान् अस्मि I अद्य मे तेजः
अवजानासि, मे पराक्रमम् पश्य I”
क्रुद्धो राघवः भार्गवस्य शरासनम् शरं च प्रतिजग्राह I रामः स धनू आरोप्य शरं सज्यं चकार ह जामदग्न्यं रामम् अब्रवीत्, “ब्राह्मणो इति मे पूज्यो असि। तस्मात् प्राणहरं शरम् ते मोक्तुं न शक्तः I इमां पादगतिं, तपोबलसमार्जितान् लोकान् वा ते हनिष्यामि यत् इच्छसि ।“
जमदग्न्यो रामं उवाच, “मया तपसा निर्जिताः लोकाः शरमुख्येन जहि I”
रामो शरं चिक्षेप I जामदग्न्यो पर्वतोत्तमं महेन्द्रं जगाम I”
ततः पुत्रैः अनुगतः राजा पुरीम् जगाम, गृहं प्रविवेश I

15. सर्वा राजसुताः स्वं स्वं गृहं आसाद्य भर्तृभिः सहिता रहः रेमिरे I कुमाराश्च पितरम्
शुश्रूषमाणाः वर्तयन्ति I अथ कस्यचित् कालस्य (भरतस्य) मातुलः युधाजित्
(तं) नेततुं आगतः I भरतः शत्रुघ्नसहितः ययौ I रामः पितुः आज्ञां पुरस्कृत्य
प्रियाणि हितानि च पौरकार्याणि, मातृभ्यो मातृकार्याणि, गुरूणां गुरुकार्याणि (च) चकार ।
0 x

Post Reply